|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.65. अध्यायः 065
Mahabharata - Vana Parva - Chapter Topics
भीमराजेन नलदमयन्त्यन्वेषणाय नानादेशेषु ब्राह्मणानां प्रस्थापनम् ॥ 1 ॥ सुदेवनाम्ना विप्रेण चेदिराजगृहे दमयन्तीदर्शनम् ॥ 2 ॥ विप्रेण सह सबाष्पं भाषमाणां दमयन्तीं दृष्ट्वा राजमात्रा विप्रंप्रति दमयन्तीकुलशीलादिप्रश्नः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
बृहद्श्व उवाच। 3-65-0x(1941)(18409)
हृतराज्ये नले भीमः सभार्येऽदर्शनं गते।
`चिन्तयामास बहुशः सहामात्यैर्नराधिपः ॥ 3-65-1(18410)
समाहूय द्विजान्सर्वानिदं वचनमब्रवीत्।
अग्रहारं च दास्यामिग्रामं नगरसंमितम् ॥ 3-65-2(18411)
दमयन्तीं नलं चैव पर्यन्वेषति यो द्विजः।
गवां शतसहस्राणि दाता तस्मै द्विजातये ॥ 3-65-3(18412)
इत्युक्त्वा ब्राह्मणान्सर्वान्समाहूय द्विजोत्तमान्।
प्रस्थापयामास तदा तयोर्दर्शनकाङ्क्षया' ॥ 3-65-4(18413)
संदिदेश च तान्भीमो वसु दत्ता च पुष्कलम्।
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥ 3-65-5(18414)
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे।
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ॥ 3-65-6(18415)
अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम्।
हिरण्यंच सुवर्णं च दासीदासं तथैव ॥ 3-65-7(18416)
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा।
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥ 3-65-8(18417)
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम्।
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया।
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् ॥ 3-65-9(18418)
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥ 3-65-10(18419)
तयैव राजमाता च ब्राह्मणान्पर्यवेषयत्।
भोजनार्थे सुदेवोऽपि तत्रैव प्रविवेश ह ॥ 3-65-11(18420)
कृशां विवर्णां मलिनां भर्तृशोकपरायणाम्।
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥ 3-65-12(18421)
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्।
निबद्धां धूमजालेन प्रभामिव विभावसोः ॥ 3-65-13(18422)
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।
तर्कयामास भैमीति कारणैरुपपादयन् ॥ 3-65-14(18423)
सुदेव उवाच। 3-65-15x(1942)
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना।
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियं ॥ 3-65-15(18424)
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्।
कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ॥ 3-65-16(18425)
चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव ॥ 3-65-17(18426)
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्।
मलपङ्कानुलिप्ताङ्गीं प्रम्लानां नलिनीमिव ॥ 3-65-18(18427)
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्।
पतिशोकाकुलां दीनां कृशस्त्रोतां नदीमिव ॥ 3-65-19(18428)
विध्वस्तपर्णकमलां वित्रासितविहंगमाम्।
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥ 3-65-20(18429)
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्।
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम् ॥ 3-65-21(18430)
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्।
चन्द्रलेखामिव नवांव्योम्नि नीलाभ्रसंवृताम् ॥ 3-65-22(18431)
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च।
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया ॥ 3-65-23(18432)
भर्ता नाम परं नार्या भूषणं भूषणैर्विना।
एषा हि रहिता तेन शोभमाना न शोभते ॥ 3-65-24(18433)
दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः।
धारयत्यात्मनो देहं न शोकेनापि सीदति ॥ 3-65-25(18434)
इमामसितकेशान्तां शतपत्रायतेक्षणाम्।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥ 3-65-26(18435)
कदा नु खलुः दुःखस्य पारं यास्यति वै शुभा।
भर्तुः समागमात्साध्वीरोहिणी शशिनो यथा ॥ 3-65-27(18436)
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥ 3-65-28(18437)
तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृतम्।
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥ 3-65-29(18438)
युक्तं तस्याप्रमेयस्य वीर्यसत्ववतो मया।
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥ 3-65-30(18439)
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्।
अदृष्टदुःखां दुःखार्तां ध्यानरोदनतत्पराम् ॥ 3-65-31(18440)
बृहदश्व उवाच। 3-65-32x(1943)
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्।
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥ 3-65-32(18441)
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥ 3-65-33(18442)
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ॥ 3-65-34(18443)
त्वत्कृतेबन्धुवर्गाश्च गतसत्वा इवासते।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् ॥ 3-65-35(18444)
बृहदश्व उवाच। 3-65-36x(1944)
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर।
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान् ॥ 3-65-36(18445)
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥ 3-65-37(18446)
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता।
सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ 3-65-38(18447)
जनित्र्याः प्रेषयामास सैरन्ध्री रुदते भृशम्।
ब्राह्मणेन सहागम्य तांविद्धि यदि मन्यसे ॥ 3-65-39(18448)
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा।
जगाम यत्रसा बाला ब्राह्मणेन सहाभवत् ॥ 3-65-40(18449)
ततः सुदेवमानाय्य राजमाता विशांपते।
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ 3-65-41(18450)
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना।
त्वया च विदिता विप्र कथमेवंगता सती ॥ 3-65-42(18451)
एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्यादेवरूपिणीम् ॥ 3-65-43(18452)
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः।
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥ 3-65-44(18453)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-65-7 अग्रं ब्राह्मणभोजनं तदर्थं ह्रियन्ते राजधनात्पृथकूक्रियन्ते तेऽग्रहाराः क्षेत्रादयः ॥ 3-65-14 कारणैर्लिङ्गैः उपपादयन् इयमेव दमयन्तीति निश्चिन्वन् ॥ 3-65-16 श्यामां सदा षोडशवार्षिकीम् ॥ 3-65-20 पद्मिनीं सरसीम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|